|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.95. अध्यायः 095
Mahabharata - Bhishma Parva - Chapter Topics
भगदत्तादियुद्धम् ॥ 1 ॥
Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-95-0x(4177)(42966)
तस्मिन्महति संक्रन्दे राजा दुर्योधनस्तदा।
`पराजयं राक्षसेन नामृष्यत परंतपः।'
गाङ्गेयमुपसंगम्य विनयेनाभिवाद्य च ॥ 6-95-1(42967)
तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे।
घटोत्कचस्य विजयमात्मनश्च पराजयम् ॥ 6-95-2(42968)
कथयामास दुर्धर्षो विनिःश्वस्य पुनःपुनः ।
अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् ॥ 6-95-3(42969)
भवन्तं समुपाश्रित्य द्रोणं चैव पितामह ।
पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो ॥ 6-95-4(42970)
एकादश समाख्याता अक्षौहिण्यश्च या मम।
निदेशे तव तिष्ठन्ति मया सार्धं परंतप ॥ 6-95-5(42971)
सोऽहं भरतशार्दूल भीमसेनपुरोगमैः ।
घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः ॥ 6-95-6(42972)
तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः ।
तदिच्छामि महाभाग त्वत्प्रसादात्परंतप ॥ 6-95-7(42973)
राक्षसापशदं हन्तुं स्वयमेव पितामह ।
त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि ॥ 6-95-8(42974)
सञ्जय उवाच। 6-95-9x(4178)
एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम।
दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥ 6-95-9(42975)
शृणु राजन्मम वचो यत्त्वां वक्ष्यामि कौरव।
यथा त्वया महाराज वर्तितव्यं परंतप ॥ 6-95-10(42976)
आत्मा रक्ष्यस्त्वया तात सर्वावस्थास्वरिन्दम।
धर्मराजेन संग्रामस्त्वया कार्यः सदाऽनघ ॥ 6-95-11(42977)
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः ।
अन्यैर्वा पृथिवीपालै राजा राजानमृच्छति ॥ 6-95-12(42978)
न तु कार्यस्त्वया राजन्हैडिम्बेन दुरात्मा।
अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः।
शल्यश्च वृषसेनश्च विकर्णश्च महारथः ॥ 6-95-13(42979)
शेषाश्च भ्रातरस्त्वन्ये दुःशासनपुरोगमाः।
त्वदर्थे प्रतियोत्स्यामो राक्षसं तं महाबलम् ॥ 6-95-14(42980)
रौद्रे तस्मिन्राक्षसेन्द्रे यदि ते हृच्छयो महान् ।
अयमागच्छतु रणं तस्य युद्धाय दुर्मतेः ॥ 6-95-15(42981)
भगदत्तो महीपालः पुरन्दरसमो युधि ।
एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् ॥ 6-95-16(42982)
समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः।
गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् ॥ 6-95-17(42983)
वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् ।
राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा ॥ 6-95-18(42984)
तव दिव्यानि चास्त्राणि विक्रमश्च परंतप ।
समागमश्च बहुभिः पुराऽभूदमरैः सह ॥ 6-95-19(42985)
त्वं तस्य नृपशार्दूल प्रतियोद्धा महाहवे ।
स्वबलेनावृतो गच्छ जहि राक्षसपुङ्गवम् ॥ 6-95-20(42986)
सञ्जय उवाच। 6-95-21x(4179)
एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः।
प्रययौ सिंहनादेन परानभिमुखको द्रुतम् ॥ 6-95-21(42987)
तमापतन्तं संप्रेक्ष्य गर्जन्तमिव तोयदम् ।
अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः ॥ 6-95-22(42988)
भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः ।
द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च भारत ॥ 6-95-23(42989)
चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा ।
सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् ॥ 6-95-24(42990)
ततः समभवद्युद्धं घोररूपं भयानकम्।
पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् ॥ 6-95-25(42991)
प्रयुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः ।
ते निपेतुर्महाराज नागेषु च रथेषु च ॥ 6-95-26(42992)
प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः ।
परस्परं समासाद्य संनिपेतुरभीतवत् ॥ 6-95-27(42993)
मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे ।
बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् ॥ 6-95-28(42994)
हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः ।
चोदिताः सादिभिः क्षिप्रं निजघ्रुरितरेतरम् ॥ 6-95-29(42995)
पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः।
न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः ॥ 6-95-30(42996)
रथिनश्च रथाकंश्चित्रान्कर्णिनालीकतोमरैः ।
निहत्य समरे वीरान्सिंहनादान्विनेदिरे ॥ 6-95-31(42997)
तस्मिंस्तथा वर्तमाने संग्रामे रोमहर्षणे ।
भगतत्तो महेष्वासो भीमसेनमथाद्रवत् ॥ 6-95-32(42998)
कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम्।
पर्वतेन यथा तोयं स्रवमाणेन सर्वशः ॥ 6-95-33(42999)
किरञ्छरसहस्राणि सुप्रतीकशिरोगतः ।
ऐरावतस्थो मघवान्वारिधारा इवानघ ॥ 6-95-34(43000)
स भीमं शरधाराभिस्ताजयामास पार्थिवः ।
पर्वतं वारिधाराभिस्तपान्ते जलदो यथा ॥ 6-95-35(43001)
भीमसेनस्तु संक्रुद्धः पादरक्षान्परःशतान्।
निजघान महेष्वासः संरब्धः शरवृष्टिभिः ॥ 6-95-36(43002)
तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् ।
चोदयामास नागेन्द्रं भीमसेनरथं प्रति ॥ 6-95-37(43003)
स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा।
अभ्यधावत वेगेन भीमसेनपुरोगमाः ॥ 6-95-38(43004)
तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथाः।
अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः ॥ 6-95-39(43005)
केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः।
दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष ॥ 6-95-40(43006)
चेदिपो धृष्टकेतुश्च संरब्धाः सर्व एव ते।
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः ॥ 6-95-41(43007)
तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् ।
स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः ॥ 6-95-42(43008)
संजातरुधिरोत्पीडो धातुचित्र इवाद्रिराट्।
दशार्णाधिपतिश्चाऽपि गजं भूमिधरोपमम् ॥ 6-95-43(43009)
समास्थितोऽभिदुद्राव भगदत्तस्य वारणम्।
तमापतन्तं समरे जगं जगपतिः स च ॥ 6-95-44(43010)
दधार सुप्रतीकोऽपि वेलेव मकरालयम् ।
वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः ॥ 6-95-45(43011)
साधुसाध्विति सैन्यानि त्वदीयान्यभ्यपूजयन् ।
ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश ॥ 6-95-46(43012)
प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम।
तस्य कुम्भपरित्राणां शातकुम्भपरिष्कृतम् ॥ 6-95-47(43013)
विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः।
स गाढविद्धो व्यथितो नागो भरतसत्तम ॥ 6-95-48(43014)
उपावृत्तमदः क्षिप्रमभ्यवर्तत वेगिनः ।
स प्रदुद्राव वेगेन प्रणदन्भैरवं रवम् ॥ 6-95-49(43015)
संमर्दमानः स्वबलं वायुर्वृक्षानिवौजसा ।
तस्मिन्पराजिते नागे पाण्डवानां महारथाः ॥ 6-95-50(43016)
सिंहनादं विनद्योच्चैर्युद्धायैवावतस्थिरे ।
ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन् ॥ 6-95-51(43017)
किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च।
तेषामापततां राजन्संक्रुद्धानाममर्षिणाम् ॥ 6-95-52(43018)
श्रुत्वा स निनदंक घोरममर्षाद्गतसाध्वसः ।
भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् ॥ 6-95-53(43019)
अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि।
तस्मिन्क्षणे समभवत्सांवर्तक इवानलः ॥ 6-95-54(43020)
रथसङ्घांस्तथा नागान्हयांश्च हयसादिनः ।
पादातांश्च सुसंक्रुद्धः शतशोऽथ सहस्रशःक ॥ 6-95-55(43021)
अमृद्गात्समरे नागः संप्रधावंस्ततस्ततः।
तेन संलोड्यमानं तु पाण्डवानां बलं महत् ॥ 6-95-56(43022)
संचुकोच महाराज चर्मेवाग्नौ समाहितम् ।
भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता ॥ 6-95-57(43023)
घटोत्कचोऽथ संक्रुद्धो भगदत्तमुपाद्रवत्।
विकटः परुषो राजन्दीप्तास्यो दीप्तलोचनः ॥ 6-95-58(43024)
रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव ।
जग्राह विमलं शूलं गिरीणामपि दारणम् ॥ 6-95-59(43025)
नागं जिघांसुः सहसा चिक्षेप च महाबलः।
स विस्फुलिङ्गमालाभिः समन्तात्परिवेष्टितम् ॥ 6-95-60(43026)
तमापतन्तं सहसा दृष्ट्वा प्राग्ज्योतिषो नृपः ।
चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं सुदारुणम् ॥ 6-95-61(43027)
चिच्छेद तन्महच्छूलं तेन बाणेन वेगवान् ।
उत्पपात द्विधा च्छिन्नं शूलं हेमपरिष्कृतम् ॥ 6-95-62(43028)
महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता ।
शूलं निपतितं दृष्ट्वा द्विधा कृत्तं च पार्थिवः ॥ 6-95-63(43029)
रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमान् ।
चिक्षेप तां राक्षसस्य तिष्ठितिष्ठेति चाब्रवीत् ॥ 6-95-64(43030)
तामापतन्तीं संप्रेक्ष्य वियत्स्थामशनीमिव ।
उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च ॥ 6-95-65(43031)
बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत।
पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् ॥ 6-95-66(43032)
तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा।
दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः ॥ 6-95-67(43033)
पाण्डवाश्च महाराज भीमसेनपुरोगमाः ।
साधुसाध्विति नादेन पृथिवीमन्वनादयन् ॥ 6-95-68(43034)
तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् ।
नामृष्यत महेष्वासो भगदत्तः प्रतापवान् ॥ 6-95-69(43035)
स विष्फार्य महच्चापमिन्द्राशानिसमप्रभम् ।
अभिदुद्राव वेगेन पाण्डवानां महारथान् ॥ 6-95-70(43036)
विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् ।
भीममेकेन विव्याध राक्षसं नवभिः शरैः ॥ 6-95-71(43037)
अभिमन्युं त्रिभिश्चैव केकयान्पञ्च पञ्चभिः ।
पूर्णायतविसृष्टेन शरेणानतपर्वणा ॥ 6-95-72(43038)
बिभेद दक्षिणं बाहुं क्षत्रेदवस्य चाहवे ।
पपात सहसा तस्य सशरं धनुरुत्तमम् ॥ 6-95-73(43039)
द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् ।
भीमसेनस्य च क्रोधान्निजघान तुरंगमान् ॥ 6-95-74(43040)
ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः ।
निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः ॥ 6-95-75(43041)
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।
विशोको भरतश्रेष्ठ भगदत्तेन संयुगे ॥ 6-95-76(43042)
ततो भीमो महाबाहुर्विरथो रथिनां वरः ।
गदां प्रगृह्य वेगेन प्रचस्कन्द रथोत्तमात् ॥ 6-95-77(43043)
तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम् ।
तावकानां भयं घोरं समपद्यत भारत ॥ 6-95-78(43044)
एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः ।
आजगाम महाराज निघ्नञ्शत्रून्समन्ततः ॥ 6-95-79(43045)
यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ महाबलौ ।
प्राग्ज्योतिषेण संयुक्तौ भीमसेनघटोत्कचौ ॥ 6-95-80(43046)
दृष्ट्वा च पाण्डवो भ्रातॄन्युध्यमानान्महारथान् ।
त्वरितो भरतश्रेष्ठ तत्रायुध्यत्किरञ्छरान् ॥ 6-95-81(43047)
ततो दुर्योधनो राजा त्वरमाणो महारथः ।
सेनामचोदयत्क्षिप्रं रथनागाश्वसंकुलाम् ॥ 6-95-82(43048)
तामापतन्तीं सहसा कौरवाणां महाचमूम् ।
अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः ॥ 6-95-83(43049)
भगदत्तश्च समरे तेन नागेन भारत।
विमृद्गन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् ॥ 6-95-84(43050)
तदासीत्सुमहद्युद्धं भगदत्तस्य मारिष।
पाञ्चालैः पाण्डवेयैश्च केकयैश्चोद्यतायुधैः ॥ 6-95-85(43051)
भीमसेनोऽपि समरे तावुभौ केशवार्जिनौ ।
अश्रावयद्यथावृत्तमिरावद्वधतुत्तमम् ॥ ॥ 6-95-86(43052)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे पञ्चनवतितमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-95-4 भवन्तं समुपाश्रित्य वासुदेवं यथा परैः इति झo पाठः। ड पाठे अयमर्थश्लोको नास्ति॥ 6-95-15 अनुशय इति पाठे पश्चात्तापः ॥ 6-95-77 प्रचस्कन्द अवततार ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|